|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.88. अध्यायः 088
Mahabharata - Sabha Parva - Chapter Topics
सपत्नीभ्रातृकस्य युधिष्ठिरस्य शकुनिना पराजयः॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
शकुनिरुवाच॥
बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्॥ 2-88-1(14807)
युधिष्ठिर उवाच॥ 2-88-2x(1582)
मम वित्तमसङ्ख्येयं यदहं वेद सौबल।
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि॥ 2-88-2(14808)
अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम्।
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः॥ 2-88-3(14809)
मध्यं चैव परार्धं च सपरं चात्र पण्यताम्।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया॥ 2-88-4(14810)
वैशम्पायन उवाच॥ 2-88-5x(1583)
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-5(14811)
युधिष्ठिर उवाच॥ 2-88-6x(1584)
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम्।
यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल।
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया॥ 2-88-6(14812)
वैशम्पायन उवाच॥ 2-88-7x(1585)
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-7(14813)
युधिष्ठिर उवाच॥ 2-88-8x(1586)
पुरं जनपदो भूमिरब्राह्मणधनैः सह।
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥ 2-88-8(14814)
वैशम्पायन उवाच॥ 2-88-9x(1587)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-9(14815)
युधिष्ठिर उवाच॥ 2-88-10x(1588)
राजपुत्रा इमे राजञ्छोमन्ते यैर्विभूषिताः।
कुम्डलानि च निष्काश्च सर्वं राजविभूषणम्।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया॥ 2-88-10(14816)
वैशम्पायन उवाच॥ 2-88-11x(1589)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-11(14817)
युधिष्ठिर उवाच॥ 2-88-12x(1590)
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः।
नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम्॥ 2-88-12(14818)
शकुनिरुवाच। 2-88-13x(1591)
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर।
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे॥ 2-88-13(14819)
वैशम्पायन उवाच॥ 2-88-14x(1592)
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-14(14820)
युधिष्ठिर उवाच॥ 2-88-15x(1593)
अयं धर्मान्सहदेवोऽनुशास्ति
लोके ह्यस्मिन्पण्डिताख्यां गतश्च।
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं चाप्रियवत्प्रियेण॥ 2-88-15(14821)
वैशम्पायन उवाच॥ 2-88-16x(1594)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-16(14822)
शकुनिरुवाच॥ 2-88-17x(1595)
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया।
गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ॥ 2-88-17(14823)
युधिष्ठिर उवाच। 2-88-18x(1596)
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्।
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि॥ 2-88-18(14824)
शकुनिरुवाच॥ 2-88-19x(1597)
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति।
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ॥ 2-88-19(14825)
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर।
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव॥ 2-88-20(14826)
युधिष्ठिर उवाच॥ 2-88-21x(1598)
यो नः सङ्ख्ये नौरिव पारनेता
जेता रिपूणां राजपुत्रस्तरस्वी।
अनर्हता लोकवीरेण तेन
दीव्याम्यहं शकुने फाल्गुनेन॥ 2-88-21(14827)
वैशम्पायन उवाच॥ 2-88-22x(1599)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-22(14828)
शकुनिरुवाच। 2-88-23x(1600)
अयं मया पाण्डवानां धनिर्धरः
पराजितः पाण्डवः सव्यसाची।
भीमेन राजन्दयितेन दीव्य
यत्कैतवं पाण्डव तेऽवशिष्टम्॥ 2-88-23(14829)
युधिष्ठिर उवाच॥ 2-88-24x(1601)
यो नो नेता यो युधि नः प्रणेता
यथा वज्री दानवशत्रुरेकः।
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा
सिंहस्कन्धो यश्च सदाऽत्यमर्षी॥ 2-88-24(14830)
बलेन तुल्यो यस्यप पुमान्न विद्यते
गदाभृतामग्र्य इहारिमर्दनः।
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं भीमसेनेन राजन्॥ 2-88-25(14831)
वैशम्पायन उवाच॥ 2-88-26x(1602)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-26(14832)
शकुनिरुवाच। 2-88-27x(1603)
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्॥ 2-88-27(14833)
युधिष्ठिर उवाच॥ 2-88-28x(1604)
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा।
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते॥ 2-88-28(14834)
वैशम्पायन उवाच॥ 2-88-29x(1605)
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ 2-88-29(14835)
शकुनिरुवाच। 2-88-30x(1606)
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः।
शिष्टे सति धने राजन्पाप आत्मपराजयः॥ 2-88-30(14836)
वैशम्पायन उवाच॥ 2-88-31x(1607)
एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्।
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक्॥ 2-88-31(14837)
शकुनिरुवाच॥ 2-88-32x(1608)
अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः।
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय॥ 2-88-32(14838)
युधिष्ठिर उवाच॥ 2-88-33x(1609)
नैव ह्रस्वा न महती न कृशा नातिरोहिणी।
नीलकुञ्चितकशी च तया दीव्याम्यहं त्वया॥ 2-88-33(14839)
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया।
शारदोत्पलसेविन्या रूपेण श्रीसमानया॥ 2-88-34(14840)
तथैव स्यादानुशंस्यात्तथ स्याद्रूपसम्पदा।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम्॥ 2-88-35(14841)
सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम्।
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम्॥ 2-88-36(14842)
चरमं संविशति या प्रथमं प्रतिबुध्यते।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्॥ 2-88-37(14843)
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च।
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा॥ 2-88-38(14844)
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा।
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल॥ 2-88-39(14845)
वैशम्पायन उवाच॥ 2-88-40x(1610)
एवमुक्ते तु वचने धर्मराजेन धीमता।
धिग्धिगित्येव वृद्धानां सभ्यानां निः सृता गिरः॥ 2-88-40(14846)
चुक्षुभे सा सभा राजन्राज्ञां सञ्जत्रिरे शुचः।
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत॥ 2-88-41(14847)
शिरो गृहीत्वा विदुरो गतसत्व इवाभवत्।
आस्ते ध्यायन्नधोवक्त्रो निः श्वसन्निव पन्नगः॥ 2-88-42(14848)
`बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः।
द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः।
आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः'॥ 2-88-43(14849)
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत॥ 2-88-44(14850)
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः।
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम्॥ 2-88-45(14851)
सौबलस्त्वभिघायैव जितकाशी मदोत्कटः।
जितमित्येव तानक्षान्पुररेवान्वपद्यत॥ ॥ 2-88-46(14852)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टाशीतितमोऽध्यायः॥88॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-88-6 पर्णाशा नदी॥ 2-88-23 कैतव कितवेभ्य आहर्तव्यं धनम्॥ 2-88-46 जितकाशी जयशोभी॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|